________________
६६९
अथ मार्गलक्षणकथनमार्गशालालक्षणकथनात्मको अष्टषष्टितमैकोनसप्ततितमाध्यायौ
कुलकरूपौ ॥
दुर्गमार्गः स्थापनीयः स्थलमानवशात्क्वचित् । पञ्चदण्डप्रमाणेन हीनस्तु न सुग्वप्रदः ॥ १ ॥
युक्त्या शाल्पा भरूह्य नानाविधकल्पन करणीयमिति सझेपतो ग्राममुख द्वारनगरमुख द्वारलक्षणं प्रतिपादितं बोध्यम् ॥
इति श्रीमदनन्तकृष्णभट्टारकांवरचितायां प्रमाणबाधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां ग्रामपुरद्वारलक्षणकथनं नाम
सप्तपष्टितमोऽध्यायः ॥
॥ अष्टषष्टितम-एकोनसप्ततितमाध्यायौ ॥
अथ मार्गलक्षणमार्गशालालक्षणकथनात्मको अष्टषष्टितमैकोनसप्ततितमाध्यायौ कुलकरूपौ प्रतिजानीते - दुर्गमार्गः स्थापनीय इत्यादिना। पूर्वोक्तग्रामनगरमुखद्वारभागतलमारभ्य तत्र तत्र प्रामान्तरनगरान्तरदेशान्तरादिगमनाथ कल्पनीयमार्गस्तु साधारणदण्डदशकवैशाल्य सहित एव स्थापनीयः । कचित्तन्यूनप्रमाणसहितो वा, तदधिकप्रमाणयुतो वा मार्गस्थलविभवानुगुणं