________________
६६५
महास्तम्भस्थापनाद्वा महावृक्षप्रवर्धनात् ॥ २ ॥
अट्टापथस्थापनाद्वा घण्टास्थानप्रकल्पनात् ।
वा पचभौमगोपुरनिर्माणं वा, सप्तभौम गोपुरनिर्माणं वा यथाभिरुचिविभवं स्थापयेत् । तस्मान्महामार्गादिषु गमनशीलानां जनानामेतादृशमुखद्वारगोपुरदर्शनेनैव दूरतः स्थानादयमत्र प्रामादिः इति बोधो जायेत इति भावः ||
अथर्वैतादृशपुरद्वारोपरि गोपुरस्थापनाभावे तस्य पुरद्वारस्य किञ्चिद्दूरे मुखभागे आलोकनशाला कल्पनरीत्या पश्र्चतलसहित सप्ततललसितं वा महामण्टपनिर्माणं कार्यम् । अथवा तादृश. मण्टपकल्पननिर्माणशक्त्यभावे घनशिलामयमहास्तम्भनिखननं वा वरम् । तथाकरणस्यापि विभवाद्यभावे वटाश्वत्थाद्युन्नततरुबृन्दवर्धनं वा तन्मुखद्वारसमीपे कार्यम् । अथवा कचिदट्टापथाख्यं स्तम्भरूपकल्पनं इष्टिकासुधादिकल्पितं वा तत्र फलप्रदम् । अथवा तादृशमुखद्वारदेहल्यादिस्थानेषु समयनिवेदकघण्टाबादनस्थलं कल्पयित्वा तत्र च महाघण्टां नीत्वा वादयेदिति । अय प्रकारो जीवानां क्षेमकर इति भावः ||
किश्वेतादृशभमयुतमण्डपकरूपन महा स्तम्भस्थापनादिकन्तु मामनगरराजधान्यादिमुखभागस्थलेष्वेव कार्यम् । न पर्वतोपरि कल्पित दुर्गनगरादिमुखद्वार भाग इति । तथाऽपि कचित्पद
8. 3. 84