________________
अथ ग्रामपुरद्वारलक्षणकथनं नाम
सप्तषष्टितमोऽध्यायः ॥
ग्रामाणामपि सर्वेषां दुर्गाणाश्च पुरामपि । मुखद्वारं व्यक्तरूपं यथामानं प्रकल्पयेत् ॥ १॥ गोपुरस्थापनाद्वापि महामण्टपकल्पनात् ।
सप्तषष्टितमोऽध्यायः ॥
अथ ग्रामनगरमुखद्वारभागे कल्पनीयकल्पनलमणकथनात्मकं सप्तषष्टितमाध्यायमारभते- ग्रामाणामपीत्यादिना । नत्र खलु मण्डकादिनानाविधप्रामाणां भद्रकसर्वतोभद्रादिनानाविधनगराणां च मुग्बद्वारस्थलमतिमनोहरकल्पनभासुरं दूरतो दर्शनेऽपि पथिकादीनां सुव्यक्तरूपं कल्पनीयमिति लक्षणवाक्यार्थः । केन वा प्रकारण तादृशग्रामनगरमुख द्वारं सुव्यक्तं कल्पनीयमिति चेदाह गोपुरस्थापनाद्वेत्यादिना ।।
प्रामाणां वा नगराणां वीथ्यादिसीमान्तिकस्थले समुचिते प्राच्यादिभागे जनगोवृषभवाजिवारणशकटादिगमनागमनयोग्यवैशाल्योन्नत्याद्युपेतं कवाटार्गलादिसंरक्षणसामग्रीलसितं स्थान मुखद्वारनाभभाग्भवतीति प्रसिद्धिः । तस्माद्रामलक्षणनगरलक्षणाध्यायोक्तरीत्या प्रामद्वारपुरद्वारनगरद्वारराजधानीद्वाराख्यस्यास्य मुखद्वारभागस्योपरि सुधेष्टिकादिभिनिभीमगोपुरनिर्माण