________________
६६२
कल्पनीया विशालान्तर्भागिका रेखणान्विता ॥ १० ॥ वाजिशालाप्रमाणा वा क्वचित्कार्या नृपालये । मुखाङ्गणसमोपेता मुखनामादिभूषिता ॥ ११ ॥ कण्डूपट्टिकयोपेता क्वचित्कार्या प्रकल्पना । नातिनिम्नोन्नतस्था च न कण्टकमहीरुहा ॥ १२ ॥ न जलस्रावकण्ठा च गोशाला शुभदा मता। मुखे वा द्वारपट्टे वा गोदेव्याकारकल्पनम् ॥ १३ ॥
किञ्च कचिद्भूपालगोपालाद्यर्थ कल्पनीयगोशालायां तु वाजिवारणशालाप्रमाणशैल्या नानाकल्पनं कल्पयेदिति च तत्कल्पनक्रमोऽपि विज्ञेयः। किञ्चैतादृशमध्यचत्वरादिस्थानेषु गोवृषभादीनां कण्डूनिवारणशिलादण्डच निखाय प्राथमिकद्वारपुरोभागेषु तच्छालाकल्पनेन सहितं वा वियुक्तं पूर्वभागाङ्गणकल्पनं कार्यम । अथवा तादृशाङ्गणकल्पनस्थापनाभावे प्राथमिक द्वारभागसमीप एव मुखनासामुखभद्राख्यकल्पनं वा विधीयताम।
तस्मादेतादशलक्षणोपेतामेव स्थापनीयामिमां गोशालां प्रामनगरादिवास्तुभागेषु न निम्नत्वोन्नतत्वादिदोषदुष्टस्थलेषु स्थापयेत् । एवं कण्टकवृक्षसमीपे जलप्रस्रवणस्थलसमीपे वा वल्मीकस्थलसमीपे च गोशालामिमां न प्रकल्पयेत् । परन्तु यया रीत्या मानवानां सौख्यकारिणी गृहादिकल्पनरचना क्रियते