________________
६६.१
पञ्चकट्य प्रमोपेता नातिश्लक्ष्णा न कर्कशा ॥ ८ ॥ चिकणैरिष्टिकाखण्डैः पाषाणैव क्वचित्स्थली । भूमिका कल्पनीयाsa गोशालायां विशेषतः ॥ ९ ॥ मध्यचत्वरयुक्ता वा चत्वरानेकमण्डिता ।
अपि चैतादृशद्वार भागे यथाभिरुचि तदनुगुणप्रमाणभासुरं दृढकवाटयोजनं कारयित्वा एकद्विकदण्डसूत्रस्थलतरणानन्तरं तदन्तस्स्थले नानाङ्गणतलं सममानं स्तम्भैरसहितमथवा स्वशक्तिगोसंख्याद्यनुगुणं स्तम्भैर्हीनं वा कल्पनं साधयित्वा ताशकल्पनोपरिभागे पूर्वोक्तरीत्या दृढाच्छादनं स्थापयेत् । अत्राच्छादनं शिलामयमपि न दोषायेति मतिः :)
किवैतादृशगोशालाया भूमितलं चिक्कणखण्डैरिष्टिका घनखण्ड कचिलाषाणखण्डकैर्घनीकृत्य दृढीकृत्य नातिकर्कशतां नातिश्लक्ष्णता नीत्वा तादृशाङ्गणतलेषु कुड्यसमीपे वा पलालतृणतुषंगादिस्थापनस्थानं, गवां वृषभानां महिषाणाञ्च वत्सादीनान शयनादिस्थलं पृथक्कारयित्वा तेषां पट्टिकानिर्माणं कारयित्वा तत्समीप एव बन्धनरज्जु काण्डादिकं च स्थापयेत् । सति च गोवृषभ महिषादिबाहुल्ये पञ्चविंशतिगोबन्धनस्थानाख्यपचकट्यकल्पनमेकद्विकादिचत्वरम्थानच
यथास्थलवैशाल्यादिप्रमाणं
स्थापयेदित्यर्थक्रमश्च बोध्यः ||