________________
६५२
भूपालभवने स्थाप्या कौवे सालकान्तरे । शोषे वाथ मृगे रोगे शालान्ते मानवे क्वचित् ॥ ३
चत्वरद्वितयन्ते वा क्वचिदन्तर्वहिता । चतुरश्रं व्यासयुतं कल्पनं श्रमदं नृणाम् ॥ ४ ॥ पूर्वमुत्रथवा पश्चिमाननम् ।
मशान्यां तामिमां वागारधान्यशालां शिलाघटिता माहाविदिष्टिकायोजितां वा यथाविभवं स्थापयेत् ||
एवं ब्राह्मणक्षत्रियगृहभवनादिवास्तुस्थानेषु कौबेयां दिशि मध्यशाला सूत्र मारणरीत्या प्रकलरयेत । वैश्यशूद्रादिवर्णजानां गृहभवनादिवास्तुस्थानेषु शोषदेवभाग वा मृगदेव भागे वा विवाहशालासमीपस्थक्षुद्र गृहादिस्थानेषु वा तत्समीपे वा तामिमां धान्यशालां स्थापयेत् । अथवा कचिद्रामनगरादिकल्पनेषु एवंरीत्या प्रथमचत्वरस्थानसमीपे वा द्वितीयचत्वरस्थानसमीपे वा सेयं धान्यशाला स्थाप्या । अथवैवं गृहकल्पनसहितां वा पृथकल्पनयुक्तां वा नामिमां शालां गृहरूपां शालारूपां कूटकल्पनयुक्तां वा प्रकल्पयेदिति स्थलनिर्देशक्रमो ज्ञेयः । प्रन्थविस्तरभिया मतान्तरसत्र नाविष्क्रियते । तस्मादत्रोक्तशैल्या कल्पनीयस्यास्य धान्यशाला निर्माणस्य प्रमाणन्तु कचिचतुरश्रमानयुतं कचिदैर्ध्याधिक्यवद्धा प्रजानां धान्यादिसम्पद्रर्धकमिति भावः ॥
"