________________
अथ धान्यगृहलक्षणकथनं नाम पश्चषष्टितमोऽध्यायः॥
देवानां भूमिपालानां ब्राह्मणानां विशेषतः। वैश्यानां सर्ववर्णानां धान्य शाला शुभप्रदा ॥१॥ तस्मात्तां सर्वयत्नेन स्थापयेल्लक्षणान्विताम् । देवागारेषु वायव्यामशान्यां वा विशेषतः ॥ २॥
॥ पञ्चपष्टितमोऽध्यायः ॥ अथ धान्यशालालमणकथनात्मकं पञ्चषष्टितमाध्यायमुपक्रमते - देवानां भूमिपालानामित्यादिना । देवालयेषु ब्राह्मणक्षत्रियवैश्यशूद्रादिवर्णगृहभवनहर्यप्रासादादिषु धान्यशालास्थापनन हारहरविरिचिवासवमुखाना वास्तुनाथप्रमुखाना वास्तुदेवानां, भूदेवीप्रमुखदेवीगणानाञ्च तृप्तिर्भवति । तेन च क्रमात मानवानां शुभपरम्पराप्राप्तिः । अत एतादृशक्षेमकारिणी धान्यशाला यथाविभवं भूपालादयस्सर्वेऽपि मानवाः स्वम्वगृहभवनादि. स्थानेषु शास्त्रोक्तलक्षणान्वितां स्थापयेयुरित्युपदेशः॥
ततस्ता दृशधान्यशालास्थापनस्थलानि निर्दिशति शास्त्रकारः देवागारेषु वायव्यामित्यादिना । सकलविधदेवानामालयेषु देवीनामालयेषु च द्वितीयतृतीयादिप्राकारस्थलेष्वथवा समुचितेषु स्थानेषु गर्भगृहसूत्रप्रसारणशैल्या वायव्यां दिश्यथवा दिशाया