________________
६४२
पुरः पश्चात्सर्वतो वा कल्पस्तम्भप्रकल्पनम् ॥ ५ ॥ युग्मद्वेियुग्मसङ्कीर्णोपस्तम्भादिप्रकल्पनम् । सुप्रतीकान्तकं सूर्यकान्तं ब्राह्मणकान्तकम् || ६ || कैलास मेरुकं कान्तं तथा नन्दीशकान्तकम् |
अथैतादृशैकखण्डस्तम्भस्योपस्तम्भकल्पनवशात्संप्राप्तनाम
भासुरं स्तम्भषट्कमपि क्रमशो विवृणोति - पुरः पश्चादित्यादिना । (७) पुरोभागस्थल एवैकेनोपस्तम्भेन वोपस्तम्भद्वयेन वा क्वचिदुपस्तम्भत्रयचतुष्कादिना वा सहितः स्तम्भः सुप्रतीकान्तस्तम्भ इति नाम भजते ||
(८) पुरोभागे सव्यापसव्ययोः क्रमेणोपस्तम्भसहितः सूर्यकान्तस्तम्भ इति नाम भजते ।
(९) मध्यस्तम्भं परितश्चतुष्वपि दिग्भागेषूपस्तम्भकल्पनसहितः स्तम्भो ब्राह्मणकान्तस्तम्भनाम भजते }
(१०) एवंरीत्या द्विद्विरूपस्थापितस्तम्भस्तु कैलासकान्तस्तम्भ इति प्रसिद्धिः ।
(११) एवं रीत्या युग्मयुग्मद्वयक्रमकल्पितः स्तम्भो मेरुकान्तस्तम्भ इति नाम प्राप्नोति ।
(१२) स्तम्भ कल्पनेमा स्तम्भचतुष्कादिकल्पने वा शृङ्खलारूपेणावाद मोतिलं मिथस्संबद्धं मध्ये मध्ये रन्धान्वितं कल्पित