________________
६४१
देवकान्तं ब्रह्मकान्तमिन्द्रकान्तमथापि वा ॥३॥ विष्णुकान्तं स्कन्दकान्तं सोमकान्तमिति क्रमात् । वर्तुलं चतुरश्रञ्च पडअन्त्वष्टपट्टिकम् ॥ ४ ॥ द्वादशाओं षोडशायं पादकल्पं विदुर्बुधाः ।
प्रासादभवनशालादिषु जात्यन्तरगृहभवनशालाङ्गणादिषु च समुचितस्थानेषु पूर्वोक्तरीत्याऽधिष्ठानं विधाय तदुपरि स्तम्भकल्पनं कार्यमिति खातस्तम्भपीठस्तम्भस्थापनक्रमो ज्ञेयः ।
अर्थतेषां स्तम्भानां तभणक्रम जात्यादिकमाह -देवकान्तमित्यादिना । (१) पूर्वोक्तरीत्या पनशिलाभिर्वा, लोहपटलेवों, सारदारुखण्डेर्वा सुधेष्टिकादिकल्पनेवळ कल्पितो वर्तुलरूपस्तम्भो देवकान्तस्तम्भः इति नामभाग्भवति । (२) चतुरश्ररूपस्तम्भः ब्रह्मकान्तस्तम्भः इति नामभाग्भवति । (३) पहश्ररूपस्तम्भः इन्द्रकान्तस्तम्भ इति नाम भजते । (४) अष्टाश्ररूपस्तम्भो विष्णुकान्तस्तम्भ इति नाम प्राप्नोति । (५) द्वादशाश्ररूपस्तम्भः स्कन्दकान्तस्तम्भ इति नाम प्रानोति । (६) षोडशाश्ररूपस्तम्भः सोमकान्तस्तम्भ इति नाम प्राप्नोति इति मान्बयो ज्ञेयः । किवदं स्तम्भषद्कं दृढाकारं नातिचित्रकल्पनमेकखण्डभामुरमिति भावः ।।
B.S.81