________________
करपट्टिकयोपेतं शृङ्खलान्वितमेव वा ॥ ९ ॥ फलकावृतभागं वा सरन्धं वा क्वचिन्मतम् । अङ्गणस्तम्भसंयुक्तमथवा स्तम्भकल्पनम् ॥ १० ॥ स्तम्भनेत्रं द्वारनेत्रं मुखनेत्रं क्रमान्नयेत् । केवलं ग्रामनिर्माणघिद माहुर्मनीषिणः ॥ ११ ॥
च द्विहस्तप्रमाणोन्नतिक सरन्ध्र मचित्रदारुमयलोहमयशिलामयादिपट्टिकास्थापनं कार्यम् । न तु ग्रामगृहचत्वरादिम्यानेविति भावः । अथवना दृशपट्टिकास्थापनाद्यकरणे द्विविचतु:संख्यादिशृङ्खलायोजन वा कार्यम् । अथवैककि कुप्रमाणोन्नतफलकायोजनमिति वाञ्छानु. गुणकल्पनाविकल्पः ।।
किश्चात्र चत्वरस्थाने कचिद्भवनप्रासादादिप प्रान्तभागेषु अङ्गणस्थानेष्विव स्तम्भस्थापनमपि कार्यम् । एतदकरणऽपि न दोषायति मतिः । किञ्च तत्र कोऽपि विशेपो यथा - एतादृशस्तम्भस्याङ्गणप्रान्तभागस्थापितस्तम्भस्य च मिथः सम्मेलनं नानाचित्रविन्यासश्च स्थापयेन । इयन्तु शैली पाश्चालमागधकोसलेषु कचिद्राविडेप च प्रसिद्धति भावः । किञ्चैतादृशस्तंभस्थापनशैल्या संपादितं स्तम्भमध्यभागाङ्गणन्त्वेकं, द्वयमथवा त्रयं, यथा वा तत्तद्भागानुगुणं भवेत् तथा प्रतिभागं मनोहरं चित्ररचना कार्येति प्रसिद्धिः॥