________________
५६५
(५) पूजागृहम ।
(६) भोजनगृहम |
(१) स्नानगृहम् ।
(२) अलङ्करण गृहम् ।
(३) द्रव्यस्थापनगृहम् ।
(७) शयनगृहम ।
(८) धनगृहमिति ।।
(४) पचनगृहम् | किनद्गृहाष्टकं ग्रामनगरादिषु सर्वेष्वपि मानववासाईकल्पनेषु सर्ववर्णजातानामवश्यं कल्पनीयमेव । किन्तु ग्रामादिषु गृहरूपकल्पनं, नगरादिषु शालारूपकल्पनमिति कषाञ्चिन्मतम् । अन्यंषान्तु यदि स्थलांब भवा ग्रामगृहनिर्माणेष्वपि महाप्रमाणवतीनां सौधरचनोपेतानां पूर्वोक्तशालानामष्टसंख्या कानां स्थापनमेव सुखाय, श्रेयसे, बास्तुनाथतोषादय इति । तस्मादस्मिन्क्षत्रियग्रामभवने तादृशमुख्यगेहाष्टकं मध्यचत्वरनवरङ्गादिकल्पन वितानवातायनादिशोभितं स्थापयित्वा सति स्थलविभवे वास्तुभूपाश्चात्यभागे दीर्घिका निष्कुटस्थापनमपि सुखायेति ॥
किया। स्मिन्क्षत्रियप्रामगृहे उपरिभागे न विमानशिखरस्थापनं युक्तम् । परन्तु प्रतिभौमतल भित्यन्तभागे कचिद्रोपानसीतलभागेष्वपि सुधेष्टिकादिभिः क्षुद्रकलशस्थापनमेव वरमिति सप्रण क्षत्रियग्रामभवन सौधलक्षणमुक्तं बोध्यम् । किश्व कल्पनस्यास्यान्तरालिकलक्षणान्तरकल्पनान्तरप्रमाणादिकं तु सूक्ष्मधीभिः स्थपतितक्षक प्रमुखैः स्वयमेवोह्यमिति ॥