________________
५६४
द्वारान्तद्वरसंयुक्ता चूलीहम्यदिमण्डिता । द्विभौमा वा त्रिभौमा वा मित्यन्तकलशान्विता ॥
नवरङ्गममोपेता मध्यशालाविराजिता । अलिन्द भाग संयुक्तयुग्मयुग्मकशालका || १३ ||
तदन्तः क्षुद्रशाला वा तथा प्राप्तोषशालका | क्षत्रचिह्नेन संयुक्ता मुखद्वारस्थली वरा ॥ १४ ॥ मुख्यगेहाष्टको पेता कूपारामादिभिर्युता । कल्पनीया शिल्पिवरैः कालमेव्यगृहान्विता ॥ १५ ॥
किञ्च पूर्वोक्तरीत्या ताटावरण थलेषु भृत्यवाहनधान्यादिद्रव्यस्थापनस्थलं यथाविभवं कल्पयित्वा तदन्तर्भागे मध्यकल्पने मध्यमाधिष्ठानरीति भौमद्वयं वा क्वचिद्रौमत्रयावधिकमेव कल्पनं द्वारान्तर्द्वाररक्षितमुपरि क्षुद्रप्रमाणचन्द्रशालासमेतं प्रकल्पयेत् । किनाव क्षमाकल्पने प्रथमद्वारद्वितीयद्वारतरणस्थले अलिन्दद्वयं निर्माय तदन्तर्युग्म संख्याक कल्याणशालादिमहाशालानिर्माणं सचित्र भित्तिरचनं प्रकल्पयेत् ॥
अपि चात्र क्षत्रियभवने तादृशशालान्तरस्थले मुख्यमेहानामष्टकं स्थापयित्वा तहद्वारसमीपे प्राथमिकद्वारललाट भागे च खड्ग चन्द्रसूर्यपताकासिह्मगजतुरगादिरूपयोजनं कारयेत् 1 एवं कल्पितानां तेषां मुख्यगेहानामष्टानां नामानि यथा