________________
५५४
मानुष्ये भोज्यशालादिः क्रमादेवं प्रकीर्तितः । स्तम्भान्धारिकया युक्तं समकल्पनशोभितम् ॥२०॥ मध्यभागद्वारकन्तु कल्पनं सर्वयोग्यकम् । हीनभागद्वारकन्तु ग्रामेष्वेव क्वचिद्विदुः ॥ २१ ॥ नित्यनैमित्तिकद्वार कल्पनादिसमन्वितम् । चतुष्कर्णद्वारकूटं द्वादशद्वारकल्पनम् ॥ २२ ॥
वेदाध्ययनशास्त्र पठनाद्यर्थ शाला वा कूटो वा मण्टपो वा कल्पनीयः । किम्वास्मिन्नेव ब्रह्मभागे विद्याभ्यामस्थलकल्पनं श्रेयस्करमिति फलितार्थः । एवं द्वितीये गान्धर्वभागे शयनादिस्थलं, तृतीये मानुपभागे भोजनशालादिकं च क्रमाकरणीयमिति लक्षणवाक्यार्थः ॥ __अपि चैतादृशभागत्रयस्थलेषु स्थलान्तरेष्वपि क्षुद्रगृहादिपरिकल्पने समुचितभागे स्तम्भान्नानारूपान् विषमहीनान स्थापयित्वा तद्गलभागकल्पितां दाढान्वितां आन्धारिकाख्यामुप. दारुकल्पनां च क्राहिवर्धयित्वा तदुपरि कल्पनाच्छादनादिकं च दृढं प्रकल्पयेत् । तथा कल्पने क्वचिक्षुद्रगृहमहागृहशालादि. स्थानेषु समसूत्रभागमध्यतले मध्यद्वारस्थापनं विरचय्य तन्मानमेव पुरोभागकल्पनादिकमपि वातायनादिशोभितं नित्यनैमित्तिकादिवाविवाहादिकार्याचरणयोग्यं चतुष्कर्णभागेष्वपि धारस्थापनयुक्तं करणीयमिति लक्षणवाक्यार्थः ।।