________________
५५३
अन्त्यकल्पनयुक्तं वा तहूरे वा कचित्स्थले ॥१६॥ वाजिगोमहिषादीनां स्थानकं कल्पद्रुधः। वापीकूपसमायुक्तं निष्कुटारामशोभितम् ॥ १७ ॥ नानावरणयुक्तं वा कल्पनश्च क्वचिन्मतम् । ब्राह्मगान्धर्वमानुष्य भागत्रयविभाजितम् ॥ १८ ॥ कारयेन्मतिमाञ्छिल्पी कल्पनाई पृथुक्रियम् । ब्राह्मे वेदप्रचारश्च गान्धर्वे शयनादिकः ॥ १९ ॥
समद्वारादिप्रमाणं मुखभागादिहीनं विरचय्य तदनन्तरस्थ ले मध्यभागे महती शालामेकां नानास्तम्भभासुरां निर्मापयेत् । किञ्च तां परितस्तदपेक्षया क्षुद्रप्रामाणिकशालान्तराणां कल्पनमपि यथास्थलविभवं स्थापनीयमिति च क्रमः ॥
किश्चैतादृशक्षुद्रग्रामगृहभूमिश्च, महाग्रामगृह भूमिश्च भागत्रयात्मिका विभक्ता भवति । यथा-ब्रह्मभागात्मिका, गान्धर्वभागात्मिका, मानुषभागात्मिका चेति । किञ्चास्य भागत्रयस्य स्थलनिर्देशस्तु, प्राथमिकद्वारपुर:स्थलप्रभृति द्वितीयद्वारभागतरणानन्तरस्थलाषधिका ब्रह्मभागभूमिः । ततः शालाचत्वरतरणानन्तरस्थली गान्धर्वभागभूमिः । ततः पचनालयभोजनालयस्थलावधिका मानुषभागभूमिरिति । एवं कल्पननिर्माणसौकर्यार्थ शास्त्रकारः स्वपत्याचार्यश्च विभक्तेषु भागत्रयभूभागेषु ब्रह्मभागलले
8. S. 70