________________
५४९
शालाकुड्यादिभिर्युक्तं चत्वरालिन्दमंयुतम् || ८ ||
नाना गृहसमायुक्तं युग्मतूलादिवेशक । क्षुद्रग्रामेष्वियं शैली प्रशस्ता परिकीर्तिता ॥ ९ ॥ त्रिविधं भवनं प्रोक्तं बृहद्ग्रामादिषु क्वचित् ।
सह मध्यचत्वराङ्गणभित्ति परसरदायीर्थं मेलयित्वा तैः साकमङ्गणान्तःस्थळे शालान्तःस्थले च निखातानां स्तम्भानां सम्मेलनमपि तिर्यग्वरुयोजनवशानू कारयित्वा मिथः कल्पनाढ्यं सुधालेपनमापाद्य तक्षकककश कारादयः समसूत्र कल्पना स्थलविभजनं प्रकल्पयेयुरिति क्रमः ॥
अपि चान्तरालिकद्वारस्य वेशकमिति नामान्तरं शिल्पप्रसिद्धम् । अतस्तादृशवेश ककल्पनं तत्र तत्र शालास्त्रलिन्दादिस्थापनान्तरेष्वपि मुखभागे विरचय्य, तत्सभसूत्रकं वेशकान्तरमपि प्रतिमुखशालास्थाने संयोज्य, मध्ये मध्ये समुचितस्थलेषु पाकादिकार्योचितनानावेिधद्रव्यस्थापनार्ह क्षुद्र गृहनिर्माणश्च करणीयमिति । एवं क्षुद्रग्रामेषु कल्पनीय क्षुद्रगृहादीनां लक्षणशैली सप्रहेण प्रतिपादिता ज्ञेया ॥ ९ ॥
अथ बृहदाकार महाप्रामेषु कल्पनीय सद्मानिकेतनादीनां प्रमाणनिर्माणादिक्रमं व्यनक्ति - त्रिविधं भवनं प्रोक्तमित्यादिना । बृहदाकारप्रामादिषु पञ्चसहस्राधिकजनाध्युषितेषु
--