________________
५४८
एकद्वित्रिचतुःपञ्चषट्छालाभिः समन्वितम् । शावलैरिष्टिकाखण्डैः पटलैर्वा विशेषतः ॥ ६ ॥ दृढावरणकं शस्तं तजीवानां सुखप्रदम् । वामे च दक्षिण भागे शालाकल्पनशोभितम् ॥ ७ ॥ चत्वरादिसमाक्रान्ततलमध्येन भाजितम् ।
स्थापनाई क्षुद्रगृहनिर्माणं कारयित्वा तदनन्तरम्थले पुनरपि महाशालायां द्वयं वा त्रयं क्वचिद्भोजनशाला समिलितं वा स्थापयित्वा तत्र च पाश्चात्यभागान्ते द्वितीय चत्वरप्रकल्पनश्च निर्मापणीयम ||
एवं दक्षिणभागे वा वामभागे उभयत्र वा स्थले स्थापनीयायाः कल्याणशालाया भित्त्यादरधिकोन्नत्यं प्रकल्पयित्वा पार्श्वकल्पने क्वचित्तत्समानं, क्वचित्तद्धीनप्रमाणं स्थलानुगुणोपरिभागकल्पनं वर्षासलिलपतन योग्यं प्रकल्प्य कोणशावलकै. वक्रष्टिकावण्डैरथवा तप्तमृत्पटलैईढं विरचय्य चित्ररुपरिभागाच्छादनं कारयेत । एवं सर्वत्र ग्रामगृहोपरिभागे निरन्तरशावलादिसंयोजनमव ग्रीष्मवर्षादि समयेषु तद्गृहवास्तव्यानां प्राणिनां सौख्यादिहेतुरिति भावः ॥
किश्चैतादृशग्रामगृहेषु पूर्वोक्तस्थानेषु तत्र तत्र स्थलमानानुगुणं स्थापितानामेकद्वित्रिचतुःपञ्चषशालानां पाभित्तिकल्पना