________________
त्रिपञ्चसप्तभौमान्तं कल्पनं प्रविधीयते ॥३॥ शतदण्डप्रमाणं वा द्विशतावधिमानकम् । नेयमत्र विधानेन कल्पनाहं पृथुक्रियम् ॥ ४ ॥
एवमेतयोमन्त्रिसेनेशयोः हर्म्य स्थापनयोग्यस्थलतत्प्रमाणकथनानन्तरं संभपतस्तत्क्रममाचष्टे - क्षुद्रप्राकारमित्यादिना । तदिदमेतयोहम्यं क्षुद्रप्राकारत्रययुक्तं वा प्राकारद्वयोपेतं वा कचिदेकप्राकारावृतं वा परिकल्प्य, स्थलविभवानुगुणं समसूत्रप्रमाणं मध्यस्थमुख्यकल्पनं त्रिभौमभासुरं वा पञ्चभौमभासुरं वा कचित्सप्तभौमोज्ज्वलं स्थापयेत् ॥
अत्रैवं शिल्पसमयः । यथा-- यदि नृपप्रासाद कल्पनं नवभूमिकं कृतं तदेतयोहम्य सप्तभूमिकमेव कल्पयेदिति । एवमुत्तरत्रापि ज्ञेयम । सर्वथा नृपप्रासादादेत द्धयेकल्पने हीनप्रमाणादियोजनमेव प्रजानां मण्डलस्य राज्ञश्च तेषां क्षेमकर नृपप्रासादकल्पनौत्कर्घ्य द्योतकमिति च भावः । आचरणमिदं गिरिमस्तकादिषु कल्पनीयदुर्गस्थलेष्वपीति प्राचां शिल्पिनामाशयः॥
एवं साधारणलक्षणमुक्त्वाऽऽन्तरालिकलक्षणमद्य विवृणोतिशतदण्डप्रमाणं वेत्यादिना । किश्चैतयोस्सचिवसेनानायकयोहय॑स्य मध्यस्थमुख्यकल्पनस्य कियद्वा प्रमाणमिति चेत्साधारणदण्डशतं षा कचित्तदधिकं वा कचित्स्थलविभवसंभवे द्विशतावधिकमेव