________________
५३५
योजयेत्स्थपति श्रेष्ठः अन्तस्स्थं पूर्ववक्त्रकम् । बहिश्चेत्पश्चिमास्यं वा कौबेरास्यमथापि वा ॥२॥
क्षुद्रप्राकारसंयुक्तं भौमत्रयसमन्वितम् ।
यावत्प्रमाणं भूतलं परिकल्पितं तत्प्रमाणार्धभाग वा स्थलाभावे तदर्धभागं वा सचिवसेनापतिहर्म्यपरिकल्पनाय विभजेदिति क्रमः । सर्वथा नृपप्रासादप्रमाणादर्धप्रमाणं, क्वचित्पादप्रमाणं वा एतयोः सचित्रसेनापत्योहम्र्येषु योजनीयम ; न तत्सदृशप्रमाणयोजनं, नापि न्यूनप्रमाणकमिति भावः । इदश्च लक्षणं समभूमिषु नगरेषु कल्पनीयहर्म्यविषयकमिति भावः । दुर्गस्थलेषु कचित्पर्वतोपरिभागेषु कल्पनीयमन्त्रि सेनापतिहाणां मानन्तु तत्तत्स्थलानुगुणमिति शिल्पका यविदामाशयः ।।
तस्मात्तदिदं सचिव सेनानायकहादिनिर्माणं कुत्र वा स्थले कल्पनीयमिति चेत्तदाह- अन्तस्स्थमित्यादिना । कचिन्नगरादिषु नृपप्रा सादवास्तुमीनो ऽन्तर्भागे पृथगेत्र प्रकल्पयेत् । तदा वासवदिङ्मुखप्राथमिकद्वारकल्पनमेव श्रेयस्करमिति शिल्पसमयः । एवं नृपप्रामादवास्तुभागस्यान्तस्स्थले एतयोः हर्म्य स्थापनयोग्यस्थलाभावे पद्मक सर्वतोभद्रादिनगरेषु, कचिद्वनदुर्गसलिल दुर्गादि. स्थलेष्वपि,नृपप्रासादमुखराजवीथ्यादिषु समुचितस्थानेषु प्रकल्पयेत् इति विकल्पः ॥