________________
५३३
तोरणादीनि चित्राणि तत्र तत्र प्रकल्पयेत् ॥ २२ ॥ विधातारश्च वाणीञ्च गीतिशास्त्रप्रवर्तकान् । विद्याधरीं जगद्धात्रीं कल्पयेच्चन्द्रसूर्यकौ ।। २३ । द्वारपार्श्वस्थले योधं स्थापयेद्खङ्गधारिणम् । चामरग्राहिणी दिव्ययोषितं वात्र कल्पयेत ॥ २४ ॥
लक्ष्मीमुमां शिवं दिव्यगायकान्या प्रकल्पयेत् । पार्श्वभित्तिसमायुक्ता मङ्गणाङ्गणकल्पनाम् ॥ २५ ॥
सुषिरद्वार भागाढ्यामात्तपङक्तिक्रमां तथा । कल्पयेल्लक्षणोपेतैः नानाचित्रादिभिर्धृताम् । क्वचिदुद्यानवापीं वा सुखदां शुद्धवास्तुका ॥ २६ ॥
इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
रङ्गशालालक्षणकथनं नाम एकोनपञ्चाशोऽध्यायः ॥
स्तम्भललाटपट्टिकाभागेषु स्थलान्तरेष्वपि समुचितेषु नानाचित्र - तोरणादीन्प्रकल्पयेत् । 'विधातारश्च वाणीव' इत्यादिपाठस्सुगमार्थः । ब्रह्मद्वारभागभित्तिषु, नेत्रद्वार भाग भित्तिष्वपि विधातारं वाणीप्रमुखाः जगन्मातृश्व नानाभरणादिभूषिताः लोहसुघेष्टिकादिभिः प्रकल्पयेयुरिति ॥