________________
५३२
विमानशिखरोपेतं कर्णनामाविभूषितम् ॥ १९ ॥ तुङ्गम्तम्भशतैर्युक्तमशीतिस्तम्भकं तु वा । चतुष्पष्टिस्तम्भयुतमथवैतत्प्रकल्पयेत् ॥ २० ॥ शालाकारमिदं प्रोक्तं राजवेश्मनि मण्डपम् । वदन्ति मुनय शस्त ज्ञानानन्दकरं परम् ॥ २१ ॥ मणिदर्पणशोभाढ्यं वातायनशतान्वितम् ।
आइत्य संख्यायां स्तम्भानां शतानि स्थापनीयानि । इदमुत्तमरङ्गशालानिर्माणमिति ममयः । अशीतिस्तम्भयुक्तं वा क्वचिञ्चतुष्पष्टिस्तम्भयुतं वा कल्पनमपि मध्यम पक्ष द्योतकमेव । पञ्चाशत्स्तम्भयुतं चतुश्चत्वारिंशम्तम्भयुतं रङ्गशालाकल्पनं त्वधमः पक्ष एवेति ।।
एवंरीत्या स्तम्भस्थापने शालाकारमेव मानवामनकल्पने वरम । भूपालरङ्गशालायान्तु स्तम्भस्थापनस्थलं मण्डपाकार प्रकल्पयेत्। एवं स्थापनमेव ज्ञानानन्दशान्त्यादिवर्धकमिति मुनीनामभिमत बाध्यम । किश्चैवमत्र काल्पतनानाङ्गणोपेतस्य मानवासनस्थल भागस्योर्ध्व भूमिषु वा ब्रह्मद्वारभागस्योर्ध्व भूमिपु वा देवगन्धर्वभागस्योर्ध्व भूमिपु वा नामाकर्णादिभिरुज्ज्वलं सशिखरं विमानं स्थापनीयमिति । तत्क्रमश्च शिल्पिभिर्शेयः ॥
___किश्चाव मानवभागस्तम्भाङ्गणेषु भित्त्यन्तस्थलेषु ब्रह्मद्वारपार्श्वभित्तिषु रमणीयदर्पणादिकं सचित्ररचनं लम्बयेत् । किञ्च