________________
५२१
नानातलसमोपेतं गोपुराकृति वा क्वचित् । हस्तायामं मध्यतलं द्विहस्तं पार्श्वपट्टिकम् ॥ ३१ ॥
क्षुद्रान्धारिकया युक्तं वलभीतोरणान्वितम् । मुखपट्टिका युक्तं नानाचित्र मनोहरम् || ३२ ॥
देवगन्धर्वचिह्नानि मातृणां चिह्नकानि वा । योजयेन्मतिमाञ्छिपी शाला मौलिविमानके ॥ ३३ ॥
इति विश्वकर्मणी विश्वकर्मवास्तुशास्त्रे
कल्याणशालालक्षणकथनात्मक पञ्चभौम विधानक्रम
गोपुरविधानक्रमनिरूपणात्मका:
पट्चत्वारिंशसप्तचत्वारिंशाष्टचत्वारिंशाध्यायाः ॥
मण्डलं, चतुरश्रमथवा दीर्घमानयुतं द्विदण्डादिपरिकल्पननिर्माणभित्तियुतं नानातलभूषितम् एकस्तविस्तार मध्य तलरन्धान्वितं तत्कल्पनस्योभयपार्श्वयोर्द्विहस्तविस्तारमा पट्टिकारचनोपेतं गोपुरलक्षणप्रकरणोत्क्तरीत्या वलमीतोरणक्षुद्रान्धारिका मुखपट्टिकाचित्रादिभासुरं कल्पनं कल्पनीयमित्यर्थः ॥
एवं क्षुद्रविमानगो पुररूपनिर्माणं तु प्रायशः सर्वत्र देशेषु सुधेष्टिकादिभिरधःप्राप्तक्षुद्राधिष्ठानं क्रमात्परिकल्प्यत तत्र मुखपट्टिकातलेषु देवगन्धर्वप्रमुखबिम्बचिह्नानि योजयित्वा प्रस्तरकण्ठस्योर्ध्वभागे सुधेष्टिका लोहादिकृतलुपादिशिखरावलिं
8. 8. 66