________________
५२०
मागधेष्वपि पाञ्चालेष्वपि कालिङ्गिकेषु च ॥। २७ ॥
पूर्वद्वारोपरि स्थाप्यं तद्विमानं मनोहरम् । आस्थानमण्टपस्योर्ध्वे चूली हर्म्यस्य मौलिषु ॥ २८ ॥ कल्याणशालायाचो राज्ञां मन्दिरकूटके ।
क्वचिद्देवगृहस्यो भागे वा मङ्गलप्रदम् ।। २९ ॥
विमानकल्पनङ्कार्यं शिखरेणापि भासुरम् । वर्तुलञ्चतुरस्रं वा व्यासाधिक्यं द्विदण्डकम् ॥ ३० ॥
-
महर्षीणां व्यवहारं मनसि निधाय तादृशविमानादिस्थापनस्थलं क्रमशो व्यनक्तीत्यर्थः । यथा - मागधशैली निर्माणरीत्या, पावालकल्प नरीत्या, कालिङ्गशैली रचनारीत्या, धनिकानां, भूपालानाञ्च सदनहर्म्यप्रासादादीनां प्राथमिकद्वारस्य पुरोभागे वा तङ्कारस्योपरि मौळिकल्पनस्थाने वा कल्पनालङ्कारभूतविमानगोपुरादिकं मनोहरकल्पनं निर्मापणीयम् । शैल्यन्तरे वास्थानशालामण्डपमौलिभागे वा चन्द्रशालामौलिभागे वाऽत्रोक्तकल्याणभूमितलानामूर्ध्वभागेषु पट्टमहिष्यावासस्थानम्योपरिभागे वा क्वचिद्गृहदेवतामन्दिर मौलिभागे वा नानाशिखरोपेतं विमानरूपं, क्षुद्रगोपुररूपं कल्पनमवश्यं कार्यमिति लक्षणवाक्यार्थः
शालाया
: 11
तब विमानगोपुरकल्पनं तावदधः स्थितनिर्माणप्रमाणानुगुणं