________________
५१७
द्विदण्डं वा त्रिदण्डं वा नेष्यतेऽतः परं बुधैः ॥ सर्वेषां प्राङ्मुखं शस्तं भूपालानामुदङ्मुखम् ।
कचिदादिभूमिकतले सुधेष्टका मयस्तम्भस्थापनमेव तदोर्ध्वभूमिकल्पनेषु दारुमयस्तम्भस्थापनं वा लोहघटितस्तम्भस्थापनं वा कल्प्यतामिति समयः ॥
एवं कचिदादिभूमितले सुपिरमयस्तम्भकल्पनं (सुपिर= LET) कृतं तदो भूमिकतलेषु सुधामयदारुमयलोहमयादिस्तम्भान्यतम कल्पनं वरं दार्घ्यशोभादये, न तु आद्यभूमितले दारुस्तम्भकल्पन कृत्वोपरिभूमितले सुपरस्तम्भस्थापन श्रेयस दाशोभादय इत्यर्थः । तस्मान्मानविदः स्थपतितक्षकवराः स्तम्भस्थापनादिक्रमं सर्वत्र ज्ञात्वा तदनुगुणमस्याश्शालाया उपरिभूमिषु यथासौकर्यं स्तम्भस्थापनं कृत्वा दृढं तलं कल्पयेयुरिति शास्त्रोपदेशः ||
किन सर्वत्रैवं स्तम्भस्थापन प्रतिस्तम्भतलं मध्यभागवैशाल्यं तु साधारणदण्डद्वयं वा क्वचिद्दण्डत्रयं वा यथास्थलविभवं योजनीयम् । नातः परं मुनिभिरुदीरितमिति भावः | तेषु कल्पनदाढ्यद्यर्थमेवैत्रमुपदेश इति भावः । एवं तत्र तत्र स्थलत्रिभववाच्छाद्यनुगुण मेकभौमोपेतं वा नानाभूमिकेोपेतं वा कल्याणशालायाः कल्पनं विरचय्य तस्याश्शालायाः मुख्यं मुखद्वारं प्राङ्मुखं स्थापनीयम् । इदं विप्रवैश्यशूद्र सङ्कीर्णवर्णादीनां