________________
तले तले डोलकं स्यान्नानाचित्रमनोहरम् ॥ २१ ॥
कूटमण्टपर्वमानमानकं तत्प्रकीर्तितम् । मध्यभागं विशालाढ्यं समं वा पार्श्वकल्पनम् ॥ २२ ।।
पादसन्धारितं वापि महासुषिरधारितम् ।
पूर्वोक्तप्रमाणकं द्वितीयतृतीयपश्चकावधि तलकल्पनं क्रमाहृढभित्ति. बन्धनादिकं कारयित्वा तत्र प्रतिभौममारोहणस्थलं सोपानादिकल्पनोपेतं स्थापयेत् ॥
किश्चात्र कल्याणशालाया उपरिभागे कल्पितस्य निमोणस्योपरिभागे कूटाकारकल्पनं वा यथाभिरुचि, यथाप्रमाणं नानाचित्रमनोहरं प्रकल्पनीयम् । किश्चैवप्रकारेणात्र कल्याणशालाया उपरिभौमप्रकल्पने भूतलभौमाख्यप्रथमभौमस्थले यया रीत्या मध्यभागे वैशाल्याधिक्यं प्रयोजितं तत्समं किञ्चिन्यूनं वा प्रयोजयित्वा तत्र तत्र पाटादिसन्धारितमन्तिमभागेषु दृढभित्तिरचनं च प्रकल्पयेदित्यर्थः ॥
__ एवमत्र कल्याणशालाया उपरिभागे भौमस्थापने क्रमः कीदृश इत्याकाङ्क्षायामाह - सुषिरधारितमिति। यदि कल्याणशालाया आद्यभूमिके भूतले दारुमयस्तम्भस्थापनं तर्हि उपरिभूमिकभागेषु तन्मयस्तम्भस्थापनमेव (दारुमयम्तम्भस्थापनमेव) कार्यम् । एवं