________________
प्रासादस्य पुरोभागे द्वारस्यानन्तरम्थले ॥ २ ॥ शालानां मध्यमे भागे पूर्व वाऽऽवरणस्य तु ।
विभवाद्यनुगुणं प्रामादिषु कनीयसी, पुरादिषु मध्यमां, नगरादिपूत्तमा स्थापयेदित्युपदेशः ॥
किचात्रोक्तकनीय सीमध्यमोत्तमशब्दार्थस्तु पूर्वोक्तरीत्या नगरपुरग्रामादिषु देयवेशाल्योन्नत्यस्तम्भस्थापनसुपिरभौमकल्पनचित्रकलनादिरचनासु क्रमात्किञ्चित्किञ्चिद्धीनद्योतकः । तस्मा. दस्याः कल्याणशालायाः प्रामेषु कल्पनीयाया: स्तम्भद्वयमथवा स्तम्भ चतुक, स्तंभषटकमथवा सति स्थलविभवे स्तम्भाष्टकं स्थापनीयमिति क्रमः । एवं पुरनगरादिषु सम्भबाहुल्यौमत्यादिकं क्रमाद्वर्धनायमिति भावः । रचनान्तरमानान्तरादिकन्तु ततस्थलानुगुणं शिल्पिप्रमुखाम्स्वयमेवाह्य स्थापययुरिति भावः ॥
किश्च तामिमां कल्याण शालां कुव वा स्थले स्थापयेयुरित्या. काङ्क्षायां तदई स्थलानि निर्दिशति -प्रासादस्य पुरोभाग इत्यादिना । भूपालादीनामतिधनिकानां प्रासादहादिकल्पनानां पुरोभागे पृथगेव तामिमां कल्याणशाला दृढाधिष्ठानकल्पनस्योपरि नानाभौमान्वितां स्थापयेत । अथवा प्रथमद्वितीयद्वारभागतरणानन्तरस्थले था, तद्भागतरणानन्तरस्थले ब्रह्मभागे चतुर्बपि दिग्भागकोगेषु स्थापितानां शालानां मध्यस्थले वा स्थापयेत् । अथवा