________________
५०१
एकद्वित्रिचतुरशालां तां क्रमात्स्थापयेद्बुधः । स्वाम्यावाससमोपेता कचिद्भीमेषु सा मता ॥ २ ॥
स्वभिदक्षिणे भागे स्वाम्यावासः प्रशस्यते । रङ्गभागे चोत्तरस्थे तद्गृहिण्यास्स्थलं मतम् ॥ ३ ॥
चतुष्कूटसमायुक्ता तथा पृष्ठसभान्विता । पार्श्वयोरुभयोर्वाऽपि चाग्रभागे च शालका ॥ ४ ॥
धनिक भूपालप्रासादहर्म्यादिषु स्थापनीयाया अस्या विशेषशालायाः नानास्तम्भभासुरायाः, नानाभूमि कोपेताया मध्यभागे चतुष्कूटसभा कार्या । एवमस्याः शालायाः पृष्ठभागे, पार्श्वभागयोरप्रतश्च मध्यकल्पनोपेतामेव कूटसभां परस्परकल्पनावैषम्यादिरहितामे भौमान्वितां वा तदौन्नत्यात्कचिद्धीनप्रमाणकां वा प्रकल्पयेदिति क्रमः ॥
किन प्रायशस्सप्ततलकावधिकल्पितस्यास्य विशेषशाळापरिकल्पनस्य सव्यभागे गृहपतेरावासस्थानमपरत्र तत्कलत्रस्यावासस्थान परिकल्पनमपि शास्त्रचोदितमिति भावः । अयच क्रमोऽतिविशालस्थलकल्पितविशेषशालाकल्पनविषयक इति भावः । अथवात्र स्वाम्यावा साईस्थलाभावे तस्य तत्कलवस्य च स्थानं स्वभितदक्षिणे, रङ्गभित्तेश्वोत्तरे क्रमात्पृथक् संमिलितं वा स्थापनीयमिति भावः । स्वभित्तिर्नाम शिखरस्थापनस्थलम् ।