SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अथ विशेषशालालक्षणकथनम् ॥ भौमान्विता तु सा शाला विशेषाख्या प्रकीर्तिता । प्रासादहHभवनेष्वपि सा योग्यका मता ॥१॥ एवं प्रामनगरादिषु कल्पनीयभवनसदनालङ्कारभूतमहाशालाया निर्माणप्रमाणक्रमं संग्रहेण प्रतिपाद्याधुना कचिदतिधनिकानां भूपालानाश्च हयंप्रासादप्रभृतिषूतमकल्पनेषु कल्पनीयाया विशेषशालाया लक्षणमुपपादयति -भीमाविता वित्यादिना । कश्चिदत्र चोदयति । यथा -को वा भेदोऽत्र प्रतिपादितयामहाशालाविशेषशालापरिकल्पनयोः ? उभयत्रापि भौमान्वितत्वम्यैव मुस्यलक्षणत्वेन प्रतिपादनादिति ॥ अत्रैवं परिहारशास्त्रवचनस्वारस्यवेत्तभिराकलनीयः । यथा -- तत्र तु महाशालाकल्पने भौमान्विता वेति विकल्पः । अत्र तु विशेषशालायां तन्नैवमित्येकः प्रकारः । प्रकारान्तरन्तु तत्र तु महाशालानिर्माणे मध्यमाङ्गणस्थानस्योपरिभागमावस्यैव नानाभौमयुतत्वम् । अस्मिंस्तु विशेषशालापरिकल्पने साकल्येन सर्वकल्पनानामपि नैयत्येन नानाभीमयुतत्वमिति । तृतीयः प्रकारस्तु अस्यां किल विशेषशालायां स्वाम्यावासस्थलतत्कलननिवासस्थलसंमिलितमध्यकल्पनस्यैव विशेषकल्पनासूचकत्वमित्यामिति तटस्था एव वयम् । अतः पूर्वोक्तरीत्या
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy