________________
४.९४.
विस्तारार्धतदर्थार्धतदर्धाधिकयोजना। प्रमाणैस्तच्च विज्ञेयं नगरादिषु तन्मतम् ॥ ५ ॥
सौख्यानन्दकारिण्या एतम्या महाशालायाः कल्पनद्वयं प्राथमिकद्वारस्य सव्यापसव्यभागयोर्यथामानं विषमकल्पनरहितं प्रकल्पयेत् । तन्मध्ये यथास्थलविभवं द्वित्रिसूत्रप्रमाणबन्मध्यस्थलं प्रायशः सावरणमेकभीमयुतमथवा तलमानकल्पनोदयं वा स्थापयेत ॥
एवं प्रकारत्रयभासुरस्यास्य कल्पनस्य किन्द्रित एव प्रदेशे पूर्वोक्तपूर्वभवनं वाहनादेरारोहणादिफलकं स्थापयेदिति तत्क्रमः । किञ्च तादृशपूर्वभवनं विनैव तत्स्थाने एतन्महाशालास्थापने एकैव कल्पना सुखदेति भावः । एवं ब्रह्मभागकल्पनाविषये ऽपि ज्ञया । एवं महासद नभवनहर्म्यप्रासादादिषु भूपालप्रमुखैमहाश्रेयस्सिद्धये महाशालाया निर्माणमेक मथवा तहयं कल्पनीयमित्युपदे होय इति भावः ॥
किञ्च पूर्वतनमहर्षिभिः शिल्पकोविदेश निर्दिष्टप्रकारेण पूर्वोक्तभवनसदनादौ एतन्महाशालापेक्ष या वैशाल्याधिक्यादिप्रमाणपरिकल्पनानां चित्राद्यलकरणविषये किश्चिद्धीनरचनानामन्यासां क्षुद्रशालानामपि प्रकम्पनमवश्यं कार्यमेव । कुतः ? तेषु तेषु समयेषु नानाविधद्रव्यस्थापनशयननित्यनैमित्तिककार्याचरणादिना तत्साफल्यमिति भावः। तस्मात्तादृशक्षुद्रशालामामेके,