SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ अथ महाशालालमणविशेषशालालक्षणकथनात्मको चतुश्चत्वारिंशपश्चचत्वारिंशाध्यायौ कुलकरूपौ ॥ तत्रादौ महाशालालक्षणकथनम् - भभृतां ब्राह्मणानाञ्च देवानाञ्च विशेषतः । वैश्यानां शूद्रजातानां महाशाला शुभप्रदा ॥१॥ निषेच्या शुभकालेषु तूर्यघोषपुरस्सरम् । शिल्पिभिः कथिताः शाला विविधाः स्थलभेदतः ।। ॥ चतुश्चत्वारिंशपञ्चचत्वारिंशाध्यायौ ॥ एनयोरघ्याययोश्चतुश्चत्वारिंशत्तमपञ्चचत्वारिंशत्तमयोर्देवानां ब्राह्मणादीनां सर्वेषामपि वर्णानां गृहभवनादिषु प्रकल्पनीयमहाशालाया विशेष शालायाश्च लक्षणं प्रतिपादयितुं आदौ तन्निमितिफलमाह - महाशाला शुभप्रदेति । सर्वेषामपि वर्णानां एवंप्रकारेण बहुविधशुभकारिणी काचिन्महाशाला गृहभवनादिष्ववश्यं प्रकल्प्या ॥ ___ सा च शाला सम्पूर्णनिर्माणनिष्पमानन्तरं शुभयोगमुहूर्ते मङ्गलवाद्यताडनपूर्वकं यजमानगृहपतिमुखैः निषेव्येति तत्प्रवेशनक्रमः समहेणोक्त इति विवेकः । शालेत्येवालम , कथं महाशालादिकमिति चेदुच्यते । सर्वत्र प्रामनगरनिर्मितगृहभवनादिषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy