________________
४९१
तिर्यग्दारुषु सोपानेष्वपि दायय योजयेत् ॥ १८ ॥ तत्स्थलं मसृणीकुर्याच्चित्रादिच प्रकल्पयेत् । युक्त्याऽन्यदपि तद्योज्यं शकटादिषु शिल्पिभिः || नाना लोहकृतं भद्रं यथामानं यथाबलम् । तत्तत्स्थानाईकं योज्यं देवमानवकल्पने ॥ २० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे पता कालक्षणपारिभद्रलक्षणकथनात्मकौ
द्विचत्वारिंशत्रिचत्वारिंशाध्यायाँ कुलकरूपी ॥
विधा अय: प्रमुख लोह कृता: अयः कील शृङ्खलालादयः कवाटबन्धनद्वारफलकाबन्धनपर्यङ्कघटनढोला फलका संयोजन स्तम्भसन्धारण - कीलस्थापनयोजनादिदृढीकरणकार्येषु यथाप्रमाणं यथावलं यथा
शोभं स्थापनीया: ॥
つ
इत्थंप्रकारेण तक्षकलोहकारककशकारादिभिर्भवनगृहादि
निर्माणेषु रथशिबिकाशकटयानादिकल्पनेष्वपि स्वस्वकार्यांनुगुणं युक्तया तत्तत्स्थलानुगुणं पताका कल्पनानुगुणपारिभद्रकल्पनादिकं स्थापनीयमिति सङ्क्षेपेण पारिभद्रलक्षणमुक्तं ज्ञेयम् ।।
इति श्रीमदनन्त कृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां
पताकालक्षणपारिभद्रलक्षणकथनात्मको द्विचत्वारिंशत्रिचत्वारिंशाध्यायौ ॥