________________
अथ पारिभद्रलक्षणकथनम् ॥ ४३ ॥ पारिभद्रं लोहकर्म कथितं मुनिपुङ्गवै।। तत्तत्स्थानेषु तद्योज्यं दृढसन्धानसिद्धये ॥ १२ ॥ वारटकादिभिस्तच्च दाढाथ योजयेदृढम् । तत्प्रोक्तं विविधं लोके तत्तत्कार्यप्रमाणतः ॥ १३ ॥ दारुकारैर्लाहकारैः कल्पयेत्स्थानयोग्यकम् । तत्प्रमाणश्च विविधं तज्ज्ञात्वा योजयेद्बुधः ॥ १४ ॥ मिर्णिका कुञ्चिका शङ्कः कीला कील्या च कीलका । शृङ्खला तर्जिनी हस्ता शङ्खला रन्ध्रिका तथा ॥१५॥
अथ पारिभद्रलक्षणमाह - पारिभद्रं लोहकरेंत्यादिना । एवमुक्तपताकाकल्पन योजने कचिहारुपट्टिकासंयोजने स्तम्भोपरि बोधिकास्थापनादौ चायःकीलादिसंयोजनं विना न दाव्यं भवेत् । अयञ्च लोकप्रसिद्धो विषयः । तस्मातादृशायाकीलादिस्वरूपमेवात्र पारिभद्रपदेनोच्यत इति तत्पदशब्दार्थः। अतो दारुकारलोहकारादिभिरयाकल्पनस्थानेषु अय. स्ताम्रपित्तलादिलोहेर्नानाविधकल्पनाहः कृतो लोहखण्डशृङलादिस्तत्तत्स्थानेषु योजनीय इत्यर्थः ॥ ___तदेष विशिनष्टि - मिणिकेत्यादिना । मिर्णिका (10) कनिका (Era) शकुरिति दीर्षायापहमयः । कीला
B. 8. 62