________________
४८८
तां योजयेयुः शिल्पज्ञा यथाशोभं यथाबलम् ॥ ११॥
इति पताकालक्षणकथनम् ॥ ४२ ॥
ऐरावत द्वारभागकल्याणशालापट्टिकादिषु कल्पनीया ऐरावतरूपवती प्रायशस्तक्षणरूपा । कैलासा कैलासादिसशिखरमहीधरकल्पनवती । शिखरा केवलशिखररूपिणी । विमाना केवलविमानरूपिणी । रथिका रथरूपवती । तुरगा तुरगरूपिणी । योधा सायुधयोधादिरूपभासुरा । गजा दन्तद्वय सहितगजहरिणसिह्मादिरूपवती । चन्द्रार्का चन्द्रार्कयोमण्डलवती कल्पनेत्येवं सामान्यार्थगुम्भः । एवमुक्तरीत्या नानाविधपताकादिप्रमाणादिकं तु शिल्पिभिरेव कार्यहरुपदेष्टव्यमिति भावः ॥
किश्चैतादृशी पताकाख्यकल्पनाविशषपरम्परा तु तस तत्र समुचिते स्थले यथा विशेषशोभादाढ्यादिकं दृश्यं भवेत्तथा करणीयेति भावः । किश्चैतादृशपताकाख्यविशेषशोभाजनकरचना: विना द्वाराणां गवाक्षाणां पर्यादीनां तिर्यग्दारूणां शालाफलकादीनामपि न सर्वथा मनोहरत्वं स्यादित्यनुभवशास्रोपदेशकमो बोध्या।
तस्मादिव्यदृष्टिभिर्मुनीन्द्ररुदीरितानेतादृशपताकाकल्पना. भेदाम् तत्र तत्र चित्रकार्येषु समुचितस्थलेषु तक्षकलोहकारककशकारादयो यथाप्रमाणशोभादाय स्थापयेयुरिति सहेपेण पताका. अक्षणमुक्तम् ॥