________________
४८४
मात्वा प्रमाणविच्छिल्पी पताकां मेलयेत्क्रमात् । शोभार्थमपि रक्षार्थ नानारूपा च सा मता ॥ ५ ॥
मुखं प्रतिमुखं तोला किङ्किणी रेखिका च्छटा । पद्मका कुमुदा दीपा विन्दुका झपरूपिणी ॥ ६ ॥
नामिका रूपिका कम्पा विरिकास्याऽञ्जना परा।
मानतिर्यमानाख्यं मानपञ्चकमपि तत्र तत्र स्थलक्रियानुगुणं संयोज्य कचिट्टकादितभणः, कचित् सुधेष्टिकाशकलादिकल्पनैरङ्गणकल्पनरन्ध्रभेद नसमीकरणादिभिर्विविधाकारां तादृशपताकाख्यनिर्माणरचना प्रकल्पचेदिति पिण्डितार्थः। किमर्थमिदं पताकायोजनमिति चेन , उच्यते । यथा- पूर्वोक्तद्वाराधःपट्टिकादि. स्थानेषु शोभाथं कचिद्रक्षणदायोत्पादनार्थ पताकायोजनमिति भावः।
सा च पताकारचना द्वारगवाक्षपयङ्कादिस्थानभेदेन विविधतक्षणमुधेष्टिकादिकल्पनवर्णन योजनादिना च विविधरूपा भवति । तेषां सर्वेषां स्वरूपप्रमाणादिकं तक्षकककशकारदारुकारादिभिरवश्यं ज्ञयमित्युपदेशः ।।
किश्च तेषु प्रसिद्धनामानि शास्त्रकारोऽत्र प्रतिपादयतिमुखं प्रतिमुखमित्यादिना। पूर्वोक्तपताकास्वरूपं तावत् मुखं, प्रतिमुखं, तोला, किङ्किणी, रेखिका, छटा, पद्मका, कुमुदा,