________________
तिर्यग्दारुषु सोपानपट्टिकामु विशेषतः ॥ १॥ दीपस्थानेषु पर्यङ्केष्वपि शालासु भूमिषु । गवाक्षेषु कवाटेषु वेदिकास्वासनेषु च ॥ २॥ पूतिकाम्पपीठेषु नानावक्त्रंषु मशिषु । पताका विविधा योज्या कल्पनैस्तक्षणैरपि ॥३॥ ऊर्ध्वमानरधोमानै मिमानैश्च वर्तुलैः ।
तिर्यमानैश्च विविधैः कल्पनाहैर्यथाक्रमम् ॥ ४ ॥ शालाभागकल्पितदायापादनार्थतियकप्रसारित तिर्यग्दारुखण्डादिपु भौमद्वयतलतृतीयभीमतला धारोहणार्थ कल्पितेषु सोपानेषु तादृशसोपानवलभीप्रान्तपट्टिकासु तिर्यग्दारुमुखभागेषु दीपार्थ कल्पितस्थानविशेषेषु पर्य कुडोलामञ्चादिशयनकल्पनेषु विवाहशालादिनानाविधशालोलभागेषु दृश्यस्थलेष्वलिन्द देहल्यलिन्दचत्वरशालादिकल्पनेषु अधोभूभागेषु अनेकविधगवाक्षकल्पनेषु विविधकवाटेषु नानाविधवेदिकासु विमानेषु नानाविधामनेषु पूतिकाख्येषु बम्बरेषु नानाविधोपपीठेषु नानामुखषु मेशिनामकायाकीलघटनयोग्यफलकादिष्वपि पताकारचनां कारयेदित्युपदेशः ॥
किश्चैतेषु स्थानेषु तादृशपताकायोजनेषु पूर्वोक्त नवमाध्याये सूत्रादिमानकथनप्रकरणप्रतिपादितं ऊर्ध्वमानाधोमानभूमानवतुल