________________
४६८
मध्यभागः
अथैतादृशविद्याशाला कल्पनप्रमाणमाह - मध्यमानाधिकमित्यादिना । सर्वविधनिर्माणेष्वपि पूर्वभागो पश्चाद्भाग इति भागत्त्रयविभजनं किल वर्तते । तत्र विद्याशालानिर्माण पूर्व भागपश्चाद्भागयोः दण्डप्रमाणहीनत्वं मध्यभागे दैर्ध्य वैशाख्यप्रमाणाधिक्यमिति मुख्यं लक्षणं बोध्यम् ॥
अस्य विशदार्थो यथा ग्रामे वा नगरे राजधान्यां वा विद्याशाला निर्माण स्थपतियजमानभूपालप्रमुखैस्तात्कालिक - विद्यार्थिनां भाविनि काले प्रवेशयोग्यानां विद्यार्थिनां चाहं स्थलं प्रथमत एव निश्चित्य प्रकल्पनीयम् । तादृशविद्याशालायाः पूर्वभागे प्राथमिकद्वारसमीपे साधारण दण्डदशकायामयुतं पुरतो. ऽङ्गणकल्पनमन्तइशालामिलितं यदि निर्माणं कृतं तर्हि मध्यमभागे साधारण दण्डत्रिंशतिकायामयुतं वा तदधिकमानयुतं वा कल्पनस्थलं स्वीकृत्य प्राथमिकद्वारवत्तव च द्वारान्तरं प्रकल्पयित्वा तत्समीपेऽपि अङ्गणकल्पनमन्तःस्थले तत्रत्यशालासहितकल्पन निर्मापयित्वा पश्चाद्भागे पूर्वभागे साधारणदण्डदशकायामवत्पुरतोऽङ्गणकल्पनमन्तरशालासहितं निर्माणं च कलनीयमिति भावः ॥
-
,