________________
३९६
स्थाप्यं तद्भोजनागारे द्रव्यशालासु सद्मसु । षष्ठं तु वासवं मेघावर्धकं समुदीरितम् ॥ ११ ॥ विद्याशालासु तत्स्थाध्यममात्य भवनेष्वपि । शाङ्कां वैष्णवं ब्राह्मं पूजागारे शुभप्रदम् ॥ १२ ॥ प्राङ्मुखं वोत्तरमुखमन्यच्च शुभदं मतम् । सौरं सत्पुत्रजनकं शालायां तत्प्रकल्पयेत् ॥ १३ ॥ चान्द्रं पुष्टिप्रदं स्थाप्यं विश्रान्तिस्थलमुख्यके |
वरुणरूपसहितं पञ्चमं द्वारं तु भोजनागारद्रव्यस्थापनस्थलेषु विश्रान्तिस्थलेषु च प्रकल्पयेत् । तच्च जनानामारोग्यादिशुभप्रदमिति भावः । वासवरूपसहितं षष्ठं द्वारं तु सचिवसदनादिषु विविधविद्याशालासु तत्रत्यस्थलान्तरेष्वप्यन्तर्भागे निर्मितत्तदिदं तत्रत्यानामनुपदं सत्वगुणमेवादिवृद्धिकरमिति भावः ॥
एव मानत्रगृहभवनहृम्योदिषु कल्पिते शिलामये शाङ्करं द्वारं, वासुदेवालय विष्णुद्वारं, ब्रह्मादिदेवालये ब्रह्मद्वारश्च स्थापयेदिति तत्क्रमः । इदं द्वारस्थापनं भक्तिभाजामार्चनशीलानां सकलमनोरथसिद्धय इति भावः । सूर्यरूपसहितं दशमं सौरद्वारं तु सुरतकेलिसदनेषु सूतिकागृहेषु शयनगृहेषु चान्यत्र समुचिते स्थले अन्तःपुरे कन्याशालायां च स्थापितं चेत्तदिदं तासां सत्पुत्रादिविविधश्रेयस्करमिति भावः ॥ १३ ॥