SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ३९५. द्वितीयमारोग्यं तद्भान्धर्व देहलीस्थले || ७ | कल्पनीयमिदं प्रोक्तं शयनास्थानकेऽपि च । विश्वकर्म तृतीयं तु दीर्घायुःप्रद मीरितम् ॥ ८ ॥ वैवाहिकासु शालासु शालास्वन्यासु कल्पयेत् । चतुर्थ वैश्रवणकं धनवृद्धिकरं मतम् ॥ ९ ॥ कोशागारेषु तत्स्थाप्यं सुमुहूर्ते शुभेऽहनि । पञ्चमं वारुणं प्रोक्तमारोग्य शुभदायकम् ॥ १० ॥ दन्तलोहादिना वा स्वष्टदेवतामूर्तिप्रकल्पनं पृथगेव स्थाप्यमिति तन्नियमः । तस्मादेतादृशलक्षणान्वितं लक्ष्मीद्वारं तु सर्वत्र मुख्यकल्पनपुर: स्थलादिषु स्थापितं तद्वास्तुवासिनामविच्छिन्न शुभप्रदमिति शास्त्रीयोपदेश: ॥ गान्धर्वाख्यं द्वितीयद्वारं तु देहलीभागे कचिच्छयनादिस्थलेष्वपि नियमेन स्थापनीयम् । तदा तत्रत्यानां निद्रासुखारोग्यादिशुभवर्धकमिति भावः । विश्वकर्माख्यं तृतीयं द्वारं तु विवाहशालासमीपे चत्वरशालासमीपे स्थलान्तरेष्वपि शुभकार्यार्थं कल्पितस्थलेषु च स्थापनीयम् । इदं तु द्वारं सर्वेषां दीर्घायुःप्रदमिति लोकप्रसिद्धिः । एवं धनशालायां शुभमुहूर्ते कुबेरद्वाराख्यं चतुर्थ द्वारं यदि स्थापितं, तदा तलातीव धनसम्पदुवृद्धिरिति भावः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy