________________
३८४
ससोपानं सखट्यादि कारयेच्छिल्पवित्तमः । दक्षिणस्यां शिरोभागः प्रतीच्यां वा विशेषतः ॥ ९ ॥ पार्श्वयोमङ्गलद्रव्यस्थापनं शुभवर्धकम् । मुकुरादिसमोपेतं जलपात्रेण मजुलम् ।। १० ।। कल्पनीयो द्वारभागे गन्धर्वश्शरहस्तकः । चन्द्रस्यार्कस्य वा बिम्बं कल्पयेत्तत्र मानवित् ॥११॥ इति विश्वकर्मप्रणीने विश्वकर्मवास्तुशास्त्र
शय्यागृहलक्षणकथनं नाम ॥ त्रयोविंशोऽध्यायः ॥
स्तम्भादीनि प्रकल्पयेत् । किश्चास्य शय्यामदनस्य मुख्यं द्वारं सतोरणं प्राच्यामुद्रीच्या वा कारयेत ॥ ८ ॥
अपि चात्र कल्पनेऽन्तर्भागे सोपानयुतमहाखवं वा पर्यङ्कादिशयनसामग्री वा यथाविभवं कृत्वा शयालोः पुरुषस्य शिरोभागकल्पनं दक्षिणदिग्भागगतमाहोस्वित्प्रतीचीभागगतं वा करणीयम् ॥
किञ्चोभय पार्श्वयोमर्माल्यगन्धादिस्थापनस्थलं कृत्वा सर्वतो भित्त्यादिस्थलेषु मुकुरादिमनोहर द्रव्याणि चित्ताकर्षकचित्रादिरचनादीनि च प्रकल्पयेन ॥