SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३८३ चतुरश्रं कल्पनं वा कोणपट्टादिसंयुतम् । युग्मवातायनयुक्त मेकवातायनं तु वा ॥ ३ ॥ युग्मस्तम्भकशालं वा पट्टसोपानसंयुतम् । सवितानं सोपशालं पञ्जरादिसमन्वितम् ॥ ७ ॥ मध्यवेदिकया युक्तं तत्र दीपं प्रकल्पयेत् । प्राच्यामुदीच्यां तु मुखं कल्पनीयं सतोरणम् ॥ ८ ॥ त्यर्थः । तथा च प्रामगेह कल्पितशय्यागेहस्य द्विगुणितं मानमित्युक्तं भवति ॥ किन शय्यागेहं कथंभूतमिति चेदाह - शय्यागेहमिदं परितः स्थितिमतां कल्पनानामविरोधेन परितो युग्मस्तम्भजालान्वितं कल्पनं वा कार्यम् । अथवेदं शयनगेहं चतुरश्रमायतं मण्डलाकारं कोणाष्टकयुतं वा समीपस्थापितेन शालादिकल्पनेन सहितं वा अतिदूरस्थले पृथग्वा प्रकल्पयेत् । तदा तादृशशालाया एतस्य शय्यागेहस्य च मध्ये चन्द्रिकापतनादियोग्यं तत्तद्देशीय शीतोष्णानुगुणं क्षुद्रचत्वरनिर्माणं कार्यमित्याशयः || किञ्चाव शय्यासदने एकं वातायनमथवा गवाक्षद्वयादिकच स्थापयित्वा अन्तरुपरिभागे वितानाद्यलङ्करणाय पञ्जरादिसहितं कूटादिनिर्माण स्थापयित्वा तहमध्यभागे चतुरसमसूत्रपातमानं मध्ये क्षुद्रवेद्यादिकच कृत्वा तत्र दीप
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy