SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तस्माच्छिल्पविदा कार्य कार्यनिर्माणहेतवे । द्वयश्चतुष्कमथवा गेहानामष्टकं तु वा ॥ ३ ॥ कल्पयेच्छिल्पशास्त्रज्ञो द्वादशं वाऽथ पोडश । पूर्वद्वारतलप्रान्ते देहल्याः पार्श्वयोरपि ॥ ४ ॥ प्रथमावरणोल्लामिचत्वरेषु च मध्यमे । द्वितीयावरणष्वेवं शालासु विविधासु च ॥ ५ ॥ साधारणमानवसदनेषु, भवनेषु, हयेषु वा एकस्मिन्गृहोत्तम तादृशान्तर्भवनद्वयमवश्यं कार्यम । न तब्यूनतेति भावः । ततो यथाविभवमन्तर्भवनानां चतुष्कं वाऽष्टकं द्वादशकं पोडशकं वा स्थापयेदिति विकल्पः । ग्रन्थान्तरेष्वेतादृशान्तर्भवनानां पटकदशकचतुर्दशकषोडशफाधिकानामपि अन्तर्भवनकलनानां निर्माणस्याप्युक्तत्वादौचित्याय तन्नेह प्रपञ्चयतेऽस्माभिः ॥ तस्मादेतादृशान्तर्भवनानि पूर्वनिर्दिष्टगृहोत्तमेषु कस्मिन्या स्थाने स्थाप्यानीत्या मानायां तदाह - पूर्वद्वारतलप्रान्त इत्यादिना। सर्वेषां मानवभव नानां गृहादीनाञ्च मुख्यद्वारं नगरलक्षणोक्तशैल्या यत्र कुत्र मा स्थले स्थापितमपि तस्य प्रथमद्वारम्य पूर्ववेदिकायाः पार्श्वद्वये कचिदेकस्मिन् भागे, तथा देहल्यां पार्श्वद्वये, ततः प्रथमावरणाख्यकल्पनविशेषभागचतुष्के चत्वरसमीपाङ्गणतलेषु शालाकोणेषु द्वितीयावरणकल्पनभागेषु सर्वत्र
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy