________________
३४५
मुखभदैनांगभद्रेश्चतुर्भदैर्युतं तु वा । अयाकीलयुत वाऽथ शिलापट्टयुतं तु वा ॥ १८ ॥
विशालरन्ध्रयुतो मृगीनेत्रवातायनमिति । पारावतगवाक्षकमित्यत्र केचिद्विवदन्ते । यथा - पारावतरन्ध्राकारमिति केचित । अन्ये तु पारावतपाद मदशरन्ध्रवदिति । एतत्मर्वमपि चिन्त्यपदवीं गाहते। शिल्पविदामाशयस्तु एतादृशचिह्नमेव पारावताकृतिसमानरन्ध्रमिति । तस्मादेवं गवाक्षे तक्षणीयमिति तत्तद्देशीयशिल्पज्ञानवतां प्राचीनशैलीमेव तदुपज्ञमित्युपदिशामः । स्पष्टमन्यत् ॥
तुरगाम्यगवाक्ष कल्पनम इत्यत्रापि तत्तच्छिल्पाचार्यपरम्परोपदेशेनैव वेद्यं तल्लक्षणमिति ॥
एतादृशं सर्वमपि गवाक्षवर्ग शिलामयं वाऽयकालघटितसारदारुमयं वा प्रकल्प्य तस्य गवाक्षस्य बहिरन्तीगे च शोभार्थ मुखभद्रेण वा नागभद्रेण वा चतुर्भद्रेण वा संयुतं कल्पनं कार्यम् ।।
किंवा मुखभद्रादिलक्षणमित्याकाङ्खायामुच्यते । यथातेषां गवाक्षाणां भित्त्यादिकोणप्रान्तेषु वा भागान्तरेषु वा मौलिभागे अधःप्रदेशे च चतुर्षपि दिक्कोणेषु भित्तिमध्यस्थापिताधारशिलापट्टिकोपरि यक्षगन्धर्वशुकयालीतुरगवारणपनगलतादिचित्रसहितं शिलामयं, दारुमयं, दन्तमयं वा कल्पनं नागभद्रनामभाग्भवति ॥