________________
३४४
छटागवाक्षमथवा धेनुपादगवाक्षकम् । मृगीनेत्रगवाक्षं वा पारावतगवायकम् ॥ १६ ॥
शुकनासागवा वा बहुरन्ध्रगवाक्षकम् । तुरगास्य गवाक्षं वा कल्पयेत्तत्र शिल्पवित् ॥ १७॥
१. पद्मपत्रगवाक्षकल्पनम । २. गजनेत्र ३. छटा ४. धेनुपाद ५. मृगीनेत्र , ६. पारावत ,
७. शुक्रनासा . ,, ८. बहुरन्ध्र ,, ९. तुरगास्य गवाक्षकल्पनं चेति ॥
एतादृशगवाक्षनामकथनेनैव तदीयरचनाशैली प्रतिपादिता, तथाऽपि शिल्पिबोधायास्माभिरपि कचिद: प्रकाश्यते । यथापद्मपत्राकाररन्ध्रयुनो गवाक्षः पद्मगवाक्ष इति व्यवह्रियते, एवं गजनेत्राकाररन्ध्रान्वितो गवाक्षो गजनेवगवाक्ष इति । सिमस्य छटाभारपतना कारवन रन्ध्रसमन्वितो गवाक्षः छटागवाक्ष इति । धेनोः खुराकाररन्ध्रयुतो धेनुपादगवाक्षः । एवं हरिणीनेत्राकार