________________
अथान्तःपुरलक्षणविविधगवाक्षलक्षणकथनं नाम
एकोनविंशोऽध्यायः । यशो धनं कलत्रश्च रक्षणीयं महीभुजा । तत्कोशरत्नजनकमनर्घ कथितं बुधैः ।। १ ।। तम्मात्तद्धा रक्ष्यं सपत्नेन महीभुजा । प्राकारावृतहान्तस्तत्स्थलं कार्यमीरितम् ।। २ ।। आपदेवस्य भाग वा वारुणे वा विशेषतः ।
॥ एकोनविशाऽध्यायः ॥ अथ शुद्धान्तलक्षणकथनात्मकमेकोनविंशाध्यायमारभते---- यशो धनमित्यादिना । सत्मवियवंशजातानां सार्वभौमादीनां सर्वेषां भूमिपालानां दिग्विज यादिना यशसंपादन, न्यायमार्गेण धनसंपादनं, सत्कलत्रसंरक्षणमित्येतत्त्रयमेव बहुविधश्रेयस्करम । तत्रापि विशेषतः सत्पत्न्याख्यक्षवियाणीसंरक्षणेन स्ववंशरत्नभततन याद्याविर्भावेन राज्यपरिपालनरूपप्रजारक्षणादिना स्वर्गादिसत्पदप्राप्तिरपीति शास्त्रकारैस्तत्र तत्र प्रतिपादितत्वात तदेव हृदयं मनसि निधायाधुनाऽत्र शास्त्रकारोऽपि तद्वाक्यानुवादपूर्वकं तादृशश्नत्रियमहिष्यावासभूतान्त:पुरलक्षणमाह - प्राकारावृते. त्यादिना ॥
पूर्वप्रतिपादितशैल्या नगरलक्षण प्रकरणोक्तप्रमाणसहित