________________
२३४
शिखरत्रयसंयुक्तविमानेन च भासुरम् । नानाचित्रसमोपेतं वितानैरपि मण्डितम् ।। २७ ॥
पूर्वशालाममायुक्तं खड्गचिह्नसमन्वितम् । स्थापयन्मतिमान् शिल्पी रक्षकैस्संवृताङ्गणम् ॥
इति विश्वकर्मप्रणीने विश्वकर्मवास्तुशास्त्रे
भाण्डागारलक्षणकथनं नाम अष्टादशोऽध्यायः॥
किश्चैतादृशराजकीयधनशालायाः कल्पने मध्यभागे तच्छालाकार्यकारिणामासनसमीपे पूर्वोक्तावरणत्रये चालिन्दभागेषु चित्रकम्बला स्तरणं कार्यम । किञ्च तत्र तत्र द्वारसमीपे सुवर्णपट्टैरथवा राजतपट्टैः कल्पिता सोपानपट्टावलिका स्थापयित्वा तादृशधनवे द्या उपरिभागे शिवरत्र यलसितं विमानं कल्पयित्वा
आन्तरालिकभित्तिकोणादिभागेषु नानाचित्रलसितं वितानजालञ्च रचयेत् । किञ्चास्याश्शालायाः पूर्वभागे पूर्वोक्तरीतियुनं पूर्वभवनमथवा पूर्वशाला स्तम्भाष्टकयुतां निर्मापयित्वा प्रथमद्वारसव्यापसव्ययो राज्ञां जयप्रदं खड्गचिह्न तत्पुरत एव रक्षाकार्यज्याप्तयामरक्षाकारिणां च गणं स्थापयेदित्युपदेशः ॥
तस्मादेतावता वाक्यजालेन राजकीयधनशालाया बाह्य