________________
३२६
कात्यायनो महातेजा मरीचिश्चित्रतोयकः । पालकाप्यः पुण्डरीको दीर्घदर्शी पुनर्वसुः ॥ २ ॥ योगसारो महातेजा ये चान्ये मुनिपुङ्गवाः । तैरतीन्द्रियविज्ञाननिधिभिर्धर्मरक्षकैः ॥ ३ ॥
वास्तुशास्त्रं महत्प्रोक्तं लोकरक्षणहेतवे । तदुक्तमेव संक्षिप्य तत्तल्लचणमुच्यते ॥ ४ ॥
प्रमाणेषु स्थापनेषु चित्रादिस्थापनासु च । मतभेदं समाश्रित्य मयापि समलक्षणम् ॥ ५ ॥
नयनानन्द जनककल्पनानाञ्च सूरिणाम् ।
भाण्डागारादीनां सद्भिरङ्गीकार्याणां नयनानन्दकराणां निर्मितिरचनाविशेषाणां लक्षणच स्वयं निगद्यत इति प्रतिज्ञां प्रतिपादयितुमधुना तादृशमहिमवतां प्राचीन शास्त्रकाराणामगरख्यादीनां नामानि कथयति अगस्त्य इत्यादिना ॥
--
भगवानगत्स्यो, नन्दिदेवो, नारद महर्षि बृहस्पतिस्तिम्यलोकाख्यो महर्षिः । काश्यप मुनित्रर्यो, लोकदर्शक महर्षि, महातेजाः कात्यायनो, मरीचिश्चित्रतोयकमुनिवरः पालकाप्यो महर्षिः पुण्डरीकाक्ष महर्षिर्दीर्घदर्शी मुनिश्रेष्ठः पुनर्वसुनामको मुनिवरो योगसार महर्षिरेतादृशा ये चान्ये मुनिपुङ्गवाः तैः प्रणीतेषु शिल्पशास्त्रेषु बहुविधेषु पूर्वोक्तरीत्या न्याय्यं सङ्गीकार्यमेव । मतभेद,
,