________________
अथ भाण्डागारलक्षणनिरूपणं नाम
अष्टादशोऽध्यायः॥
अगस्त्यो भगवानन्दी नारदश्च महामुनिः । बृहस्पतिस्तिम्यलोकः काश्यपो लोकदर्शकः ॥ १ ॥
॥ अष्टादशोऽध्यायः ॥ अथेदानी पूर्व पक्षप्रश्नानुदयाय प्रसङ्गादत्र किञ्चिद्विचार्यते । यथा वा-विश्वकर्मणा कृतं वास्तुशास्त्रं विश्वकर्मवास्तुशास्त्रमित्यस्य ग्रन्थस्य नाम व्यवह्रियते किल । कोऽर्थो वास्तुशब्दस्य ? उच्यते - वासाई स्थानं वास्त्विति शिल्पविदामाशयः। लक्षणया तादृशवास्तुप्रमाणादिलक्षणप्रतिपादकमिदं महच्छास्त्रमिति विवेकिनः । एतादृशलक्षणान्वितमिदं महच्छाखं 'पुरा भूमिः' इत्यादिभूलभणकथनपूर्वकं न्यायसभालक्षणकथनावधिक वास्तुशब्दार्थद्योतकं बहुधा आविष्कृतवान्ग्रन्थकारः दिव्यो विश्वकर्मा प्रसिद्धनामधेयः । कथमिदानी भाण्डागारान्तःपुरगवाक्षभोजनशालावसन्तगृहतोरणादीनां लक्षणकथनोद्योग इत्याद्याकाङ्क्षानुदयाय अगस्त्यादिभिर्वरिष्टैमहर्षिभिरतीन्द्रियज्ञैः कोसलपाञ्चालमगधादिदेशभेदेन कल्पनाभेदेन निर्मित्यादिभेदेन च वहुप्रकारं भवनादिलक्षणं कथितम् । तस्मात् तदीयामेव रचनाशैली प्रायशोऽवलम्ब्य मया च विश्वकर्मणा तादृशभवन