________________
३११
चतुष्कूटं चतुनैत्रं करपीठसमन्वितम् ॥ २७ ॥ तस्योच्छ्राय प्रमाणन्तु ज्ञेयं शिल्पविचक्षणैः । तदर्धाधिक मानादि पञ्चहस्तावधिक्रियम् ॥ २८ ॥ प्रभायाः कल्पनं प्रोक्तं सशिखं मुकुटान्वितम् । चन्द्रप्रभं वा शिविरं मण्डलं वा प्रभाकलम् ।। २९ ।।
भूपालानामारोहणायास्य
किन क्षत्रिय वंशोत्पन्नानां सिझासनस्यान्नत्यं तु एकहस्तप्रमाणमुन हस्तद्वयप्रमाणमथ वा त्रिइस्तमिति तत्तन्निर्मितियोग्यं विविधं मानमुक्तं भवति । किन तस्य सिझासनस्य पार्श्वयोरुभयोरपि करनिक्षेपस्थानाख्यं फलकाखण्डं कल्पयेत् । किश्च चतुष्कूटाख्यप्रान्तपट्टकल्पनं चतुनैवाख्यं करफलकामुखे रत्नस्थापन शुभे काले क्रमाद्रचयेदिति भाव: ॥
अपि चास्य सिद्धासनस्य पश्चाद्भागे फलकाया औन्नत्यन्तु तदर्द्धाधिकमानेन वा पञ्चदस्तमानेन वा मानितं कल्पयेदित्यर्थः । अस्य विशदार्थस्तु - सिझासने निवेशनाई मध्यफलकाया वेदिकातलात औन्नत्यं तावत् द्विहस्तप्रमाणयुक्तं कृतं यदि, तदा तादृशपश्चाद्भागफलकायाः त्रिहस्तप्रमाणं कार्यम् । तत्र च मौलिभागस्थानोपरि विविधविचित्रकल्पनानि शोभार्थं कल्पयेदित्यर्थः । एवमेव प्रमाणान्तराणि तत्तनिर्मितियोग्यानि स्वयमेवो कल्प्यानीति । किन तादृशपश्चाद्भागफलकायाः ऊर्ध्वभागे