________________
३१०
पर्यङ्कादीन्यासनानि कथितानि सभासदाम् । एवं सप्तविधान्याहुरासनानि मनीषिणः ।। २६ ।। एकहस्तं द्विहस्तं वा त्रिहस्तमथवा कचित् ।
युवराजस्य विजयासनं श्रेयस्करमुक्तं भवति । किञ्च राज्ञस्सम तत्तन्न्यायविचारणादिकार्यसाक्षिभूतानां सभासदां क्षुद्रपर्यङ्काख्यमासनं स्थाप्यमित्येवं सप्तविधान्यासनानि मनीषिभिरुक्तानीति
भावः ॥
किमर्थमत्रैतेषामासनानां बहुविधानां लक्षणकथनमिति न शङ्कनीयम् । तत्प्रयोजनादिकच स्फुटमेव । कथं वा ? भूपसमक्षं तादृशन्यायशालां प्रति समयेषु समुचितेषु धर्मस्थापनशास्त्रीयलक्षणनिर्माणादिनीतिस्थापनविवरण प्रजारक्षण रीत्यादिकथनार्थं देशीयतत्व स्थापनाद्यर्थञ्च आगन्तुकानां सामन्त नैष्ठिक परिब्राजकयतिप्रमुखानां समुचितमासनं दातव्यमिति न्यायात् इति भावः ॥
-
एवं सकलानामासनानामितरेषां लक्षणानि स्वयमेवोह्य कल्प्यानीति मत्वा तेषु प्रसिद्धस्य सिह्मासनस्य लक्षण मात्र मंत्र विशदयति – एकहस्तमित्यादिना । किन मानसारादिग्रन्थान्तरेषु अर्वाचीनेषु अस्यैव सिझासनस्य जातिभेदादिलक्षणान्तराणि प्रतिपादितानि तत्रैव दृश्यानि । नात्र ग्रन्थविस्तरभयात्प्रपचितानीति मतिः ।।