________________
३०३
विमानरचनोपेतां कुर्याच्छिल्पविशारदः ॥ १७ ॥ ईशानादिचतुष्कोणेष्वष्टपाद ममन्वितम् । पक्षद्वये षोडशकं चत्वारिंशत्सहाष्टकम् ॥ १८ ॥
पुरुषाणां तटस्थानाममात्य सेनेश सभा सदादीनाञ्च निवेशायेति भतिः । ‘शुद्धं वा मिश्रितं वापि ' इति पूर्वभवनलक्षणमत्रापि संयोजनीयमित्यान्तरालिको ध्वनिः ||
तथा चेमां भूपालन्यायशालां पावाल्यादिशैलीषु एकया स्वदेशशैल्या युतां वा शैल्यन्तरेण संयुतां वा कल्पयेदित्याद्यः पक्षः । उत्तमः पक्षस्तु यस्मिन् यस्मिन्देशे यो यो महीपालो विराजते तद्देशीयामेव शैली अत्र न्यायसभायामवश्यं स्थापयेद्वितीदमेव हृदयं, सतां च सम्मतमिति । शिल्पकलादी पिकादिप्रन्थान्तरेषु भवनादिनिर्माण प्रकरणे लक्षणान्तरादिकं दृश्यमिति ॥
सामान्य
इत्थंप्रकारेण भूपालन्यायशाला निर्माणक्रमं लक्षणान्वितमभिधायाधुना मुख्येन प्रकारत्रयेण स्थाप्यमित्यादि व्यनक्ति – ईशानादीति । चतुरश्रवास्तुभूमावीशानभागे स्तम्भाष्टक मायभागे स्तम्भाष्टकमित्यादिक्रमेण चतुर्दि कोणेषु क्रमशो द्वात्रिंशत्स्तम्भपङ्क्तिं स्थापयित्वा तेषां मध्ये समसूत्रप्रमाणं पक्षयोरुभयोरपि मिलित्वा स्तम्भषोडशके व स्थापिते न्यायशालाकल्पनाविशेषे पूर्वमुखं प्रधानद्वारं कल्पनीयमित्युत्तमः पक्षः ।