________________
३०२
शालाकारां सभाकारां मण्टपाकृतिमेव वा । चतुरश्रां वर्तुलां वा त्रितलादिविराजिताम् ।। १५ ॥ महाधिष्ठानसंयुक्तां त्रिंशत्सोपानवेदिकाम् । देवासनसमोपेतस्तम्भकूटविराजिताम् ॥ १६ ॥
किञ्च वर्तुलवास्तुभूमौ, अथवाऽऽयामवास्तुभूमौ चतुरश्रवास्तुभमौ वा कल्प्यमानाया एतादृशपौरन्यायशालायाः निर्मितिशैली तु उत्तरत्र प्रतिपादयिष्यमाणप्रकारेण शालाकारल क्षणान्वितस्तम्भादिसहिता वा सभालक्षणान्विता वा मण्ट पाकृतिसहिता वा स्थाप्या। तत्र च सामन्तादिभूपालन्यायशालायां सोपानदशकसहितक्षुद्राधिष्ठानकल्पनं स्थाप्यम । सार्वभौमन्यायशालायान्तु त्रिंशत्सोपानसहितमहाधिष्ठानकल्पनं तत्रत्यस्तम्भानामाधारपीठापरपर्यायप्रस्तारोपपीठकल्पनं भौमानां त्रयाणां तदुपरि चूलीहर्म्यस्थाने ध्वजपटलसितविमानरचनाश्च कल्पयेदित्युपदेशः ।।
किश्च सर्वत्र भूपालनिवेशनाई स्थले देवासनाख्यदिव्यवेदिकाकल्पनमतितुङ्गं कार्यमित्याशयः । किश्च तस्यामेव वेदिकापां भूपसिह्मासनं स्थाप्यमिति संप्रदायः । तादृशवेदिकायाः पुरोभागे क्रमशः पार्श्वयोरुभयोरपि बहुविधान्यासनानि स्थाप्यानि । किमर्थम ? राज्यकार्यनिर्वहणहेतवे, समुचितेषु समयेषु आगन्तुकशीलानां सामन्तपरिव्राजकनैष्ठिकयोगिप्रमुखानामन्येषां महा.